Chapter 1
Verse 1.11
Adhikaraṇa 1.1.11 इन्द्रप्राणाधिकरणम्
प्राणस्तथाऽनुगमात् ॥1.1.29॥
न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ॥1.1.30॥
शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥1.1.31॥
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॥1.1.32॥
Commentaries
Commentary by Śrī Rāmānujācārya's Śrībhāṣya
Adhikaraṇa 1.1.11 इन्द्रप्राणाधिकरणम्
निरतिशयदीप्तियुक्तं ज्योतिश्शब्दाभिधेयं प्रतिसद्धवन्निर्दिष्टं परमपपुरुष एवेत्युक्तम् । इदानीं कारण-त्वव्याप्तामृतत्वप्राप्त्युपायतयोपास्यत्वेन श्रुतः इन्द्रप्राणादिशब्दाभिधेयोऽपि परमपुरुष एवेत्याह- प्राणस्तथाऽनुगमात् ।। 1-1-29 ।। कौषीतकिब्राह्मणे प्रतर्दनविद्यायाम्, "प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च" इत्यारभ्य "वरं वृणीष्व" इति वक्तारमिन्द्रं प्रति, "त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हित- तमंर मन्यसे" इति प्रतर्दनेनोक्ते स होवाच, प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व इति श्रूयते । तत्र संशयः-किमयं हिततमोपासनकर्मतया इन्द्रप्राणशब्द निर्दिष्टो जीव एव, उत तदतिरिक्तः परमात्मेति । किंु युक्तम्? जीव एवेति । कुतः । इन्द्रशब्दस्य जीवविशेष एव प्रसिद्धः तत्समानाधिकरणस्य प्राणशब्दस्यापि तत्रैव वृत्तेः । अयमिन्द्राभिधानो जीवः प्रतर्दनेन, "त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे" इत्युक्तः, "मामुपास्स्व इति स्वात्मोपासनं हिततममुपदिदेश । हिततमश्चामृतत्वप्राप्त्युपाय एव । जगत्का-रणोपासनस्यैवामृतत्वप्राप्तिहेतुता, "तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये" इत्यवगता । अतः प्रसिद्ध जीवभाव इन्द्र एव कारणं ब्रह्म ।। इत्याशङ्कायामभिधीयते-प्राणस्तथानुगमादिति । अयमिन्द्रप्राणशब्दनिर्दिष्टो न जीवमात्रम्, अपि तु जीवादर्थान्तरभूतंपरं ब्रह्म । "स एष प्राण एव प्रज्ञात्मा आनन्दोऽजरोऽमृतः" इतीन्द्रप्राणशव्दाभ्यां प्रस्तुत-स्यानन्दाजरामृतशव्दसामानाधिकरण्येनानुगमो हि तथा सत्येवोपपद्यते ॥ २९ ॥
न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् ।। 1-1-30 ।। यदुक्तम्-इन्द्रप्राणशब्दनिर्दिष्टस्य "आनन्दोऽजरोऽमृतः" इत्यनेनैकार्थ्यादयं परं ब्रह्मेति-तन्नोपपद्यते; "मामेव विजानीहि", "प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व" इति वक्ता हीन्द्रः, "त्रिशीर्षाणं त्वाष्ट्रमहनम्" इत्येवमादिना त्वाष्ट्रवधादिभिः प्रज्ञातजीवभावस्य स्वात्मन एवोपास्यतां प्रतर्दनायोपदिशति । अत उपक्रमे जीवविशेष इत्यवगते सति "आनन्दोऽजरोऽमृतः" इत्यादिभिरुपसंहारस्तदनुगुण एव वर्णनीय इति चेत् -परिहरति – अध्यात्मसंबन्धभूमा ह्यस्मिम् - आत्मनि यस्सम्बन्धस्सोऽध्यात्मसंबन्धः । तस्य भूमा - भूयस्त्वम्, बहुत्वमित्यर्थः । आत्मन्याधेयतया संबध्यमानानां बहुत्वेन संबन्धबहुत्वम् । तच्चास्मिन्वक्तरि परमात्मन्येव हि संभवति । "तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञा मात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पितास्स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽमृतः" इति भूतमात्राशब्देनाचेतनवस्तुजातमभिधाय प्रज्ञामात्राशब्देन तदाधारतया चेतनवर्गं चाभिधाय तस्याप्याधारतया प्रकृतमिन्द्रप्राणशब्दाभिधेयं निर्दिश्य तमेव "आनन्दोऽजरोऽमृतः" इत्युपदिशति । तदेतच्चेतनाचेतनात्मककृत्स्नवस्त्वाधारत्वं जीवादर्थान्तरभूतेऽस्मिन् परमात्मन्येवोपपद्यत इत्यर्थः ॥
अथवा, अध्यात्मसंबन्धभूमा ह्यस्मिन् - परमात्मासाधारणधर्मसंबन्धोऽध्यात्मसंबन्धः । तस्य भूमा - बहुत्वं हि अस्मिन् प्रकरणे विद्यते । तथाहि - प्रथमं "त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे" इति, "मामुपास्स्वे"ति च परमात्मासाधारणमोक्षसाधानोपासन कर्मत्वं प्राणशब्दनिर्दिष्टस्येन्द्रस्य प्रतीयते । तथा "एष एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति एष एवासाधु कर्म कारयति तं यमधो निनीषती"ति सर्वस्य कर्मणः कारयितृत्वं च परमात्मधर्मः । तथा "तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एव मेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः" इति सर्वाधारत्वं च तस्यैव धर्मः । तथा "स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽऽजरोऽमृतः" इत्येतेऽपि परमात्मन एव धर्माः । "एष लोकाधिपतिरेष सर्वेशः" इति च परमात्मन्येव संभवति । तदेवमध्यात्मसंबन्धभूम्नोऽत्र विद्यमानत्वात्परमात्मैवात्रेन्द्रप्राणशब्दनिर्दिष्टः ॥३०॥
कथं तर्हि प्रज्ञातजीवभावस्येन्द्रस्य स्वात्मन उपास्यत्वोपदेशः सङ्गच्छते? तत्राह- शास्त्रदृष्टया तूपदेशो वामदेववत् ।। 1-1-31 ।। प्रज्ञातजीवभावेनेन्द्रेण, "मामेव विजानीहि", "मामुपास्स्व" इति उपास्यस्य ब्रह्मणः स्वात्मत्वे नो-पदेशोऽयं न प्रमाणान्तरप्राप्तस्वात्मावलोकनकृतः, अपितु शास्त्रेण स्वात्मदृष्टिकृतः । एतदुक्तं भवति - "अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि", "ऐतदात्म्यमिव सर्वम्", "अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा", "य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति", "एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः" इत्येवमादिना शास्त्रेण जीवात्मशरीरकं परमात्मानमवगम्य जीवात्म-वाचिनामहंत्वमादिशव्दानामपि परमात्मन्येव पर्यवसानं ज्ञात्वा "मामेव विजानीहि", "मामु पास्स्वे"ति स्वात्मशरीरकं परमात्मानमेवोपास्यत्वेनोपदिदेशेति । वामदेववत् - यथा वामदेवः परस्य ब्रह्मणः सर्वान्तरात्मत्वं सर्वस्य च तच्छरीरत्बं शरीरवाचिनां च शब्दानां शरीरिणि पर्यवसानं पश्यन् "अहमि"ति स्वात्मशरीरकं परं ब्रह्म निर्दिश्य तत्सामानाधिकरण्येन मनुसूर्यादीन् व्यपदिशति "तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्चाहं कक्षीवानृषिरस्मि विप्र", इत्यादिना । यथा च प्रह्लादः "सर्वगत्वादनन्तस्य स एवाहमवस्थितः । मत्तस्सर्वमहं सर्वं मयि सर्वं सनातने ॥" इत्यादि वदति ॥३१ ॥
अस्मिन् प्रकरणे जीववाचिभिः शब्दैरचिद्विशेषाभिधायिभिश्चोपास्यभूतस्य परस्य ब्रह्मणोऽभिधाने कारणं चोद्यपूर्वकमाह- जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ।। 1-1-32 ।। "न वाचं विजिज्ञासीत; वक्तारं विद्यात्", "त्रिशीर्षाणं त्वाष्ट्रमहनम्; अरुन्मुखान् यतीन् साला- वृकेभ्यःॆ प्रायच्छम्" इत्यादिजीवलिङ्गात्, यावद्धयस्मिन् शरीरे प्राणो वसति तावदायुः", "अथ खलु प्राण- एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति" इति मुख्यप्राणलिङ्गाच्च नाध्यात्मा संबन्धभूमेति चेत्-न; उपासात्रै-विध्यात् हेतोः । उपासनात्रैविध्यमुदेष्टुं तत्तच्छब्देनाभिधानम्-निखिलकारणभूतस्य ब्रह्मणः स्वरूपेणा-(स्वरूपा?)नुसन्धानम् भोक्तृवर्गशरीरकत्वानुसन्धानम् भोग्यभोगोपकरणशरीरकत्वानुसन्धानञ्चेति त्रिवि-धमनुसंधानमुपदेष्टुमित्यर्थःस । तदिदं त्रिविधं ब्रह्मानुसन्धानं प्रकरणान्तरेष्वप्याश्रितम् "सत्यं ज्ञानमनन्तरं ब्रह्म", "आनन्दो ब्रह्म" इत्यादिषु स्वरूपा(पिणा?) नु सन्धानम्; "तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रवि- श्य सच्च त्यच्चाभवत्, निरुक्तञ्चानिरुक्तञ्च निलयनं चानिलयनञ्च, विज्ञानञ्चाविज्ञानञ्च, सत्यं चानृतञ्च सत्यमभवत्" इत्यादिषु भोक्तृशरीरतया भोग्यभोगोपकरणशरीरतया चानुसन्धानम् । इहापि प्रकरणे तत् त्रिविधमनुसंधानं युज्यत एवेत्यर्थः । एतदुक्तं भवति-यत्र हिरण्यगर्भादिजीवविशेषणां प्रकृत्याद्यचेतनविशे-षणाञ्च परमात्मासाधारणधर्मयोगः, तदभिधायिनां शब्दानां परमात्मवाचिशब्दैः सामानाधिकरण्यं वा दृश्-यते; तत्र परमात्मनः तत्तच्चिदचिद्विशेषान्तरात्मत्वानुसन्धानं प्रतिपिपादयिषितमिति ।। अतोऽत्रेन्द्रप्राण-शब्दनिर्दिष्टो जीवादर्थान्तरभूतः परमात्मैवेति सिद्धम् ।। श्रीः इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये प्रथमस्याध्यास्य प्रथमः पादः