Śrīkoṣa
Chapter 2

Verse 2.14

Adhikaraṇa 1.2.3 अन्तरधिकरणम्
अन्तर उपपत्तेः ॥1.2.13॥
स्थानादिव्यपदेशाच्च ॥1.2.14॥
सुखविशिष्टाभिधानादेव च ॥1.2.15॥
अत एव च स ब्रह्म ॥1.2.16॥
श्रुतोपनिषत्कगत्यभिधानाच्च ॥1.2.17॥
अनवस्थितेरसम्भवाच्च नेतरः ॥1.2.18॥

Commentaries

Commentary by Śrī Rāmānujācārya's Śrībhāṣya

Adhikaraṇa 1.2.3 अन्तरधिकरणम्
इदमामनन्तिच्छन्दोगाः "य एषोऽक्षिणि पुरुषो दृश्यते । एष आत्मेति होवाच एतदमृतमेतदभयमेतद्ब्रह्म" इति । तत्र सन्देहः- किमयमक्ष्याधारतया निर्दिश्यमानः पुरुषः प्रतिबिम्बात्मा, उत चक्षुरिन्द्रियाधिष्ठातादेवताविशेषः, उत जीवात्मा, अथ परमात्मा ? इति । किं युक्त्तम् ? प्रतिबिम्बात्मेति । कुतः? प्रसिद्धवन्निर्देशात्; "दृश्यते" इत्यपरोक्षाभिधानाच्च । जीवात्मा वा, तस्यापि हि चक्षुषि विशेषेण सन्निधानात्प्रसिद्धिरुपपद्यते ? उन्मीलितं हि चक्षुरुद्वीक्ष्य जीवात्मनश्शरीरे स्थितिगती निश्चिन्वन्ति । "रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः" इति श्रुतिप्रसिद्धया चक्षुः प्रतिष्ठो देवताविशेषो वा;एष्वेव प्रसिद्धवन्निर्देशोपपत्तेरेषामन्यतमः इति प्राप्ते प्रचक्ष्महे अन्तर उपपत्तेः । अक्ष्यन्तरः परमात्मा । कुतः ? "एष आत्मेति होवाचैतदमृतमेतदभयमेद्ब्रह्म एतं संयद्वाम इत्याचक्षते । एतं हि सर्वाणि वामान्यभिसंयन्ति एष उ एव वामनिः । एष हि सर्वाणि वामानि नयति । एष उ एव भामनिः । एष हि सर्वेषु लोकेषु भाति" इत्येषां गुणानां परमात्मन्येवोपपत्तेः ।।
चक्षुषि स्थितिनियमादयः परमात्मन एव "यश्चक्षुषि तिष्ठन्" इत्येवमादौ व्यपदिश्यन्ते । अतश्च "य एषोऽक्षिणि पुरुषः" इति स एव प्रतीयते; अतः प्रसिद्धवन्निर्देशश्च परमात्मन्युपपद्यते । तत एव "दृश्यते" इति साक्षात्कारव्यपदेशोऽपि योगिभिर्दृश्यमानत्वादुपपद्यते ।।
इतश्चाक्ष्याधारः पुरुषोत्तमः "कं ब्रह्म खं ब्रह्म" इति प्रकृतस्य सुखविशिष्टस्य ब्रह्मणः उपासनस्थानविधानार्थं संयद्वादिगुणविधानार्थं च "य एषोऽक्षिणि पुरुषः" इत्यभिधानात् । एवकारो नैरपेक्ष्यं हेतोर्द्योतयति । नन्वग्निविद्याव्यवधानात् "कं ब्रह्म" इति प्रकृतं ब्रह्म नेह सन्निधत्ते । तथा हि, अग्नयः "प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म" इति ब्रह्मविद्यामुपदिश्य "अथ हैनं गार्हपत्योऽनुशशास" इत्यारभ्याग्नीनामुपासनमुपदिदिशुः । न चाग्निविद्या ब्रह्मविद्याङ्गमिति शक्यं वक्त्तुम्; ब्रह्मविद्याफलानन्तर्गततद्विरोधिसर्वायुः प्राप्तिसन्तत्यविच्छेदादिफलश्रवणात् । उच्यते; "प्राणो ब्रह्म" "एतदमृतमेतदभयमेतद्ब्रह्म" इत्युभयत्र ब्रह्मसंशब्दनात् । "आचार्यस्तु ते गतिं वक्त्ता" इत्यग्निवचनाच्च गत्युपदेशात्पूर्वं ब्रह्मविद्याया असमाप्तेस्तन्मध्यगताग्निविद्या ब्रह्मविद्याङ्गमिति निश्चीयते । "अथ हैनं गार्हपत्योऽनुशशास" इति ब्रह्मविद्याधिकृतस्यैवाग्निविद्योपदेशाच्च । किञ्च "व्याधिभिः परिपूर्णोऽस्मि" इति ब्रह्मप्राप्तिव्यतिरिक्त्तनानाविधकामोपहतिपूर्वकगर्भजन्मजरामरणादिभवभयोपतप्तायोपकोसलाय "एषा सोम्य ते अस्मद्विद्यात्मविद्या च " इति समुच्चित्योपदेशान्मोक्षैकफलात्मविद्याङ्गत्वमग्निविद्यायाः प्रतीयते । एवं चाङ्गत्वेऽवगते सति फलानुकीर्त्तनमर्थवाद इति गम्यते । न चात्र मोक्षविरोधिफलं किञ्चिच्छ्रूयते, "अपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यापरपुरुषाः क्षीयन्ते उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च" इत्यमीषां फलानां मोक्षाधिकृतस्यानुगुणत्वात् । अपहते पापकृत्याम् व्रेह्मप्राप्तिविरोधि पापं कर्मापहन्ति । लोकी भवति- तद्विरोधिनि पापे निरस्ते ब्रह्मलोकं प्राप्नोति । सर्वमायुरेतिब्रह्मोपासनसमाप्तेर्यावदायुरपेक्षितम्, तत्सर्वमेति । ज्योग्जीवति- व्याध्यादिभिरनुपहतो यावद्ब्रह्मप्राप्ति जीवति । नास्यापरपुरुषाः क्षीयन्ते अस्य शिष्यप्रशिष्यादयः पुत्रपौत्रादयोपि ब्रह्मविद एव भवन्ति । "नास्याब्रह्मवित्कुले भवति" इति च श्रुत्यन्तरे ब्रह्मविद्याफलत्वेन श्रूयते । उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च वयम् अग्नयस्तमेनमुपभुञ्जामः यादद्ब्रह्मपाप्ति विघ्नेभ्यः परिपालयाम इति । अतोऽग्निविद्यायाः ब्रह्मविद्याङ्गत्वेन तत्सन्निधानाविरोधात् सुखविशिष्टं प्रकृतमेव ब्रह्मोपासनस्थानविधानार्थं गुणविधानार्थं चोच्यते । ननु "आचार्यस्तु ते गतिं वक्त्ता" इति गतिमात्रपरिशेषणादाचायर्ेण गतिरेवोपदेश्येति गम्यते, तत्कथं स्थानगुणविध्यथर्तोच्यते । तदभिधीयते "आचार्यस्तु ते गतिं वक्त्ता" इत्यस्यायमभिप्रायः- ब्रह्मविद्यामनुपदिश्य प्रोषुषि गुरौ तदलाभादनाश्वासमुपकोसलमुज्जीवयितुं स्वपरिचरणप्रीता गार्हपत्यादयो गुरौरग्नयस्तस्मै ब्रह्मस्वरूपमात्रं तदङ्गभूतां चाग्निविद्यामुपदिश्य "आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापत्" इति श्रुत्यर्थमालोच्य साधुतमत्वप्राप्त्यर्थमाचार्य एवास्य संयद्वामत्वादिगुणकं ब्रह्म तदुपासनस्थानमर्चिरादिकां च गतिमुपदिशत्विति मत्वा "आचार्यस्तु ते गतिं वक्त्ता" इत्यवोचन् । गतिग्रहणमुपदेश्यविद्याशेषप्रदर्शनार्थम् । अत एवाचार्योऽपि "अहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते" इत्युपक्रम्य संयद्वामत्वादिकल्याणगुणविशिष्टं ब्रह्माक्षिस्थानोपास्यमर्चिरादिकाञ्च गतिमुपदिदेश । अतः "कं ब्रह्म खं ब्रह्म" इति सुखविशिष्टस्य प्रकृतस्यैव ब्रह्मणोऽत्राभिधानादयमक्ष्याधारः परमात्मा । ननु च "कं ब्रह्म खं ब्रह्म" इति परं ब्रह्माभिहितमिति कथमवगम्यते ? यस्येहाक्ष्याधारतयाऽभिधानं ब्रूषे । यावता "कं ब्रह्म खं ब्रह्म" इति प्रसिद्धाकाशलौकिकसुखयोरेव ब्रह्मदृष्टिविर्धीयत इति प्रतिभाति "नाम ब्रह्म" "मनो ब्रह्म" इत्यादिवचनसारूप्यात् । तत्राह -यतस्तत्र "यदेव कं तदेव खम्" इति सुखविशिष्टस्याकाशस्याभिधानम्; अत एव खशब्दाभिधेयस्सः आकाशः परं ब्रह्म । एतदुक्त्तं भवति; अग्निभिः "प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म" इत्युक्त्ते उपकोसल उवाच "विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामि" इति । अस्यायमभिप्रायः- न तावत्प्राणादिप्रतीकोपासनमग्निभिरभिहितम्, जन्मजरामरणादिभवभयभीतस्य मुमुक्षोर्ब्रह्मोपदेशाय प्रवृत्तत्वात्, अतो ब्रह्मैवोपास्यमुपदिष्टम् । तत्र प्रसिद्धैः प्राणादिभिस्समानाधिकरणं ब्रह्म निर्दिष्टम्, तेषु च प्राणविशिष्टत्वं जगद्विधरणयोगेन वा प्राणशरीरतया प्राणस्य नियन्तृत्वेन वा ब्रह्मण उपपद्यत इति "विजानाम्यहं यत्प्राणो ब्रह्म" इत्युक्त्तवान् । तथा सुखाकाशयोरपि ब्रह्मणः शरीरतया तन्नियाम्यत्वेन विशेषणत्वम्; उतान्योन्यव्यवच्छेदकतया निरतिशया-नन्दरूपब्रह्मस्वरूपसमर्पणपरत्वेन वा ? तत्र पृथग्भूतयोः शरीरतया विशेषणत्वे वैषयिकसुखभूताकाशयोर्नियामकत्वं ब्रह्मणः स्यादिति स्वरूपावगतिर्न स्यात्, अन्योन्यव्यवच्छेदकत्वे अपरिच्छिन्नानन्दैकस्वरूपत्वं ब्रह्मणः स्यादित्यन्तरप्रकारनिर्दिधारयिषया "कं च तु खं च न विजानामि" इत्युक्त्तवान् । उपकोसलस्येममाशयं जानन्तोऽग्नयः "यद्वा व कं तदेव खं यदेव खं तदेव कम्" इत्यूचिरे । ब्रह्मणस्सुखरूपत्वमेवापरिच्छिन्नमित्यर्थः । अतः प्राणशरीरतया प्राणविशिष्टं यद्ब्रह्म तदेवापरिच्छिन्नसुखरूपं चेति निगमितम्, "प्राणञ्च हास्मै तदाकाशं चोचुः" इति । अतः "कं ब्रह्म खं ब्रह्म" इत्यत्रापरिच्छिन्नसुखं ब्रह्म प्रतिपादितमिति परं ब्रह्मैव तत्र प्रकृतम्, तदेव चात्राक्ष्याधारतयाऽभिधीयत इत्यक्ष्याधारः परमात्मा । श्रुतोपनिषत्कस्यअधिगतपरमपुरुषयाथात्म्यस्यानुसन्धेयतया श्रुत्यन्तरप्रतिपाद्यमाना अर्चिरादिकागतिर्या तामपुनरावृत्तिलक्षणपरमपुरुषप्राप्तिकरीमुपकोसलायाक्षिपुरुषं श्रुतवते "तेऽर्चिषमेवाभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षम्" इत्यारभ्य "चन्द्रमसो विद्युतं तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्त्तं नावर्त्तन्ते" इत्यन्तेनोपदिशति; अतोऽप्ययमक्षिपुरुषः परमात्मा ।।
प्रतिबिम्बादीनामक्षिणि नियमेनानवस्थानादमृतत्वादीनां च निरुपाधिकानां तेष्वसम्भवान्न परमात्मन इतरः, छायादिरक्षिपुरुषो भवितुमर्हति । प्रतिबिम्बस्य तावत्पुरुषान्तरसन्निधानायत्तत्वान्न नियमेनावस्थानसम्भवः । जीवस्यापि सर्वेन्द्रियव्यापारानुगुणत्वाय सर्वेन्द्रियकन्दभूते स्थानविशेषे वृत्तिरिति चक्षुषि नाव स्थानम् । देवतायाश्च "रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः" इति रश्मिद्वारेणावस्थानवचनाद्देशान्तरावस्थितस्या पीन्द्रियाधिष्ठानोपपत्तेर्न चक्षुष्यवस्थानम् । सर्वेषामेवैषां निरुपाधिकामृतत्वादयो न सम्भवन्त्येव; तस्मादक्षिपुरुषः परमात्मा ।। इति अन्तराधिकरणम् ।। "स्थानादिव्यपदेशाच्च" इत्यत्र "यश्चक्षुषि तिष्ठन्" इत्यादिना प्रतिपाद्यमानं चक्षुषि स्थितिनियमनादिकं परमात्मन एवेति सिद्धं कृत्वाऽक्षिपुरुषस्य परमात्मत्वं साधितम् । इदानीं तदेव समर्थयते-