Śrīkoṣa
Chapter 3

Verse 3.21

Adhikaraṇa 1.3.4 ईक्षतिकर्माधिकरणम्
ईक्षतिकर्म व्यपदेशात् सः ॥1.3.12॥

Commentaries

Commentary by Śrī Rāmānujācārya's Śrībhāṣya

Adhikaraṇa 1.3.4 ईक्षतिकर्माधिकरणम्
आथर्वणिकास्सत्यकामप्रश्नेऽधीयते "यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः । यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्त्तः ससामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते" इति । अत्र ध्यायतीक्षतिशब्दावेकविषयौ, ध्यानफलत्वादीक्षणस्य; "यथा क्रतुरस्मिंल्लोके पुरुषः" इति न्यायेन ध्यानविषयस्यैव प्राप्यत्वात् "परं पुरुषम्" इत्युभयत्र कर्मभूतस्यार्थस्य प्रत्यभिज्ञानाच्च । तत्र संशय्यते; किमिह "परं पुरुषम्" इति निर्द्दिष्टो जीवसमष्टिरूपोऽण्डाधिपतिश्चतुर्मुखः, उत सर्वेश्वरः पुरुषोत्तमः ? इति । किं युक्त्तम् ? समष्टिक्षेत्रज्ञ इति । कुतः ? "स यो ह वैतद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायात कतं वाव स तेन लोकं जयति" इति प्रक्रम्यैकमात्रं प्रणवमुपासीनस्य मनुष्यलोकप्राप्तिमभिधाय, द्विमात्रमुपासीनस्यान्तरिक्षलोकप्राप्तिमभिधाय, त्रिमात्रमुपासीनस्य प्राप्यतया अभिधीयमानो ब्रह्मलोकोऽन्तरिक्षात्परो जीवसमष्टिरूपस्य चतर्मुखस्य लोक इति विज्ञायते; तद्गतेन चेक्ष्यमाणस्तल्लोकाधिपतिश्चतुर्मुख एव । "एतस्माज्जीवघनात्परात्परम्" इति च देहेन्द्रियादिभ्यः पराद्देहेन्द्रियासिभिस्सह घनीभूताज्जीयव्यष्टिपुरुषाद्ब्रह्मलोकवासिनः समष्टिपुरुषस्य चतुर्मुखस्य परत्वेनोपपद्यते । अतोऽत्र निर्द्दिश्यमानः परः पुरुषः समष्टिपुरुषश्चतुर्मुख एव । एवं चतुर्मुखत्वे निश्चिते अजरत्वादयो यथा कथञ्चिन्नेतव्याः । इति प्राप्ते प्रचक्ष्महे ईक्षतिकमर्व्यपदेशात्सः । ईक्षतिकर्म सः परमात्मा । कुतः ? व्यपदेशात्, व्यपदिश्यते हीक्षतिकर्म परमात्मत्वेन । तथा हि; ईक्षतिकर्मविषयतयोदाहृते श्लोके "तमोङ्कारेणैवायतनेनान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयं परं च" इति । परं शान्तमजरमभयममृतमिति हि परमात्मन एवैतद्रूपम् "एतद मृतमेतदभयमेतद्ब्रह्म" इत्येवमादिश्रुतिभ्यः । "एतस्माज्जीवघनात्परात्परम्" इति च परमात्मन एव व्यपदेशः, न चतुर्मुखस्य, तस्यापि जीवघनशब्दगृहीतत्वात् । यस्य हि कमर्निमित्तं देहित्वं स जीवघन इत्युच्यते, चतुर्मुखस्यापि तच्छ्रूयते "यो ब्रह्माणं विदधाति पूर्वम्" इत्यादौ । यत्पुनरुक्त्तमन्तरिक्षलोकस्योपरिनिर्दिश्यमानो ब्रह्मलोकश्चतुर्मुखलोक इति प्रतीयते, अतस्तत्रस्थश्चतुर्मुख इति । तदयुक्त्तम्; "यत्तच्छान्तमजरममृतमभयम्" इत्यादिनेक्षतिकर्मणः परमात्मत्वे निश्चिते सति ईक्षितुः स्थानतया निर्दिष्टो ब्रह्मलोको न क्षयिष्णुश्चतुर्मुखलोको भवितुमर्हति । किञ्च "यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्त्तः प्राप्यतयोच्यमानं न चतुर्मुखस्थानम्;अत एव चोदाहरणश्लोके इयमेव ब्रह्मलोकमधिकृत्य श्रूयते "यत्तत्कवयो वेदयन्ते" इति । कवयः सूरयः । सूरिभिर्दृश्यं च वैष्णवं पदमेव, "तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः" इत्येवमादिभ्यः । न चान्तरिक्षात्परश्चतुर्मुखलोकः, मध्ये स्वर्गलोकादीनां बहूनां सद्भावात्, अतः "एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारस्तस्माद्विद्वानेतेनैवायनेनैकतरमन्वेति" इति प्रतिवचने यदपरं कायर्ं ब्रह्म निर्द्दिष्टं तदैहिकामुष्मिकत्वेन द्विधा विभज्यैकमात्रं प्रणवमुपासीनानामैहिकं मनुष्यलोकावाप्तिरूपं फलमभिधाय द्विमात्रमुपासीनानाममुष्मिकमन्तरिक्षशब्दोपलक्षितं फलं चाभिधाय त्रिमात्रेण परब्रह्मवाचिना प्रणवेन परं पुरुषं ध्यायतां परमेव ब्रह्म प्राप्यतयोपदिशतीति सर्वं समञ्जसम् । अतः ईक्षतिकर्म परमात्मा ।। इति ईक्षतिकर्माधिकरणम् ।।