Brahma Sūtras (Adhyāya 3)
By Śrī Bādarāyaṇa Vyāsa
Composed in Dvāpara Yuga
4 chapters • 55 verses
Filter Content
Display Mode
Pāda 1
Adhikaraṇa 3.1.1 तदन्तरप्रतिपत्त्यधिकरणम्
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥3.1.1॥
त्र्यात्मकत्वात्तु भूयस्त्वात् ॥3.1.2॥
प्राणगतेश्च ॥3.1.3॥
अग्न्यादिगतिश्रुतेरिति चेन्न, भाक्तत्वात् ॥3.1.4॥
प्रथमेऽश्रवणादिति चेन्न, ता एव ह्युपपत्तेः॥3.1.5॥
अश्रुतत्वादिति चेन्न, इष्टादिकारिणां प्रतीतेः॥3.1.6॥
भाक्तं वाऽनात्मवित्त्वात्; तथाहि दर्शयति॥3.1.7॥
Adhikaraṇa 3.1.2 कृतात्ययाधिकरणम्
कृतात्ययेऽनुशयवान् द्दष्टस्मृतिभ्यां यथेतमनेवं च॥3.1.8॥
चरणादिति चेन्न, तदुपलक्षणार्थेति कार्ष्णाजिनिः॥3.1.9॥
आनर्थक्यमिति चेन्न, तदपेक्षत्वात्॥3.1.10॥
सुकृतदुष्कृते एवेति तु बादरिः॥3.1.11॥
Adhikaraṇa 3.1.3 अनिष्टदिकार्याधिकरणम्
अनिष्टादिकारिणामपि च श्रुतम्॥3.1.12॥
संयमने त्वनुभूयेतरेषामारोहावरोहौ, तद्गतिदर्शनात्॥3.1.13॥
स्मरन्ति च॥3.1.14॥
अपि सप्त॥3.1.15॥
तत्रापि तद्व्यापारादविरोधः॥3.1.16॥
विद्याकर्मणोरिति तु प्रकृतत्वात्॥3.1.17॥
न तृतीये, तथोपलब्धेः॥3.1.18॥
स्मर्यतेऽपि च लोके॥3.1.19॥
दर्शनाच्च॥3.1.20॥
तृतीयशब्दावरोधः संशोकजस्य॥3.1.21॥
Adhikaraṇa 3.1.4 तत्स्वाभाव्यापत्त्यधिकरणम्
तत्स्वाभाव्यापत्तिरुपपत्तेः॥3.1.22॥
Adhikaraṇa 3.1.5 नातिचिराधिकरणम्
नातिचिरेण विशेषात्॥3.1.23॥
Adhikaraṇa 3.1.6 अन्याधिष्ठताधिकरणम्
अन्याधिष्ठिते पूर्ववदभिलापात्॥3.1.24॥
अशुद्धमिति चेन्न, शब्दात्॥3.1.25॥
रेतःसिग्योगोऽथ ॥3.1.26॥
योनेः शरीरम्॥3.1.27॥