Śrīkoṣa
Chapter 2

Verse 2.14

Adhikaraṇa 2.2.4 उपलब्ध्याधिकरणम्
नाभाव उपलब्धेः॥2.2.27॥
वैधर्म्याच्च न स्वप्नादिवत्॥2.2.28॥
न भावोऽनुपलब्धेः॥2.2.29॥

Commentaries

Commentary by Śrī Rāmānujācārya's Śrībhāṣya

Adhikaraṇa 2.2.4 उपलब्ध्याधिकरणम्
विज्ञानमात्रास्तित्ववादिनो योगाचाराः प्रत्यवतिष्ठन्ते। यदुक्त्तमर्थवैचित्र्यकृतं ज्ञानवैचित्र्यमिति तन्नोपपद्यते। अर्थवत् ज्ञानानामेव साकाराणां स्वयमेव विचित्रत्वात्। तच्च स्वरूपवैचित्र्यं वासनावशादेव उपपद्यते। वासना च विलक्षणप्रत्ययप्रवाह एव। यद्घटाकारं ज्ञानं कपालाकारज्ञानस्योत्पादकं, तस्य तथाविधस्योत्पादकं तत्पूर्वघटज्ञानम्। तस्य च तथाविधस्योत्पादकं ततः पूर्वघटज्ञानं इत्येवं रूपः प्रवाह एव वासनेत्युच्यते। कथं वहिष्ठसर्पपमहीधरादेराकार आन्तरस्य ज्ञानस्यैवेत्युच्यते ? इत्यमर्थस्यापि व्यवहारयोग्यत्वं ज्ञानप्रकाशायत्तम्, अन्यथा स्वपरवेद्ययोरनतिशयप्रसंगात्। प्रकाशमानस्य च ज्ञानस्य साकारत्वमवश्याश्रयणीयम्, निराकारस्य प्रकाशायोगात्। एकश्चायमाकार उपलभ्यमानो ज्ञानस्यैव। तस्य च वहिर्वदवभाप्तोऽपि भ्रमकृतः, ज्ञानार्थयोः सहोपलम्भनियमाच्च ज्ञानादव्यतिरिक्त्तोऽर्थः। किञ्च वाह्यमर्थमभ्युपद्भिरपि घटपटशदिविज्ञानेषु ज्ञानस्य तत्तदर्थासाधारण्यं तत्तदर्थसारूप्यमन्तरेण नोपपद्यत इत्यवश्यं ज्ञानेऽर्थसरूपं रूपमास्थेयम्। तावतैव सर्वव्यवहारोपपत्तेः, तद्वयतिरिक्त्ताथर्कल्पना निष्प्रामाणिका। अतोविज्ञानमात्रमेव तत्त्वं न वाह्यार्थोऽस्तीत्येवं प्राप्ते प्रचक्ष्महे - नाभाव उपलब्धेः इति, ज्ञानातिरिक्त्तस्यार्थस्याभावो वक्त्तुं न शक्यते; कुतः ? उपलब्धेः - ज्ञातुरात्मनोऽर्थविशेषव्यवहारयोग्यतापादनरूपेण ज्ञानस्योपलब्धेः। एवमेव हि सर्वे लौकिकाः प्रतियन्ति "घटमहं जानामि" इति। एवंरूपेण सकर्मकेण सकर्तृकेन ज्ञाधात्वर्थेन सर्वलोकसाक्षिकमपरो क्षमवभासमानेनैव ज्ञानमात्रमेव परमार्थ इति साधयन्तः सर्वलोकेपहासोपकरणं भवन्तीति वेद्गवादच्छह्मप्रच्छन्नवौद्धनिराकरणे निपुणतरं प्रपञ्चितम्। यत्तु "सहोपलम्भनियमादभेदो नीलतद्धियोः" इति तत्स्ववचनविरुद्धं साहित्यस्यार्थभेदहेतुकत्वात्। तदथर्व्यवहारयोग्यतैकस्वरूपस्य ज्ञानस्य तेन सहोपलम्भनियमः तस्मादवै लक्षण्यसाधनमिति च हास्यम्, निरन्वयविनाशिनां ज्ञानानामनुवर्त्तमानस्थिराकारविरहाद्वासना च दुरुपपादा। विनष्टेनपूर्वज्ञानेनानुत्पन्नमुत्तरज्ञानं कथं वास्यते। अतो ज्ञानवैचित्र्यमप्यर्थवैचित्र्यकृतमेव। तत्तदर्थव्यवहारयोग्यतापादनरूपतया साक्षात्प्रतीयमानस्य ज्ञानस्य तत्तदर्थसम्बन्धायत्तं तत्तदसाधारण्यम्। सम्बन्धश्च संयोगलक्षणः। ज्ञानमपि हि द्रव्यमेव। प्रभाद्रव्यस्य प्रदीपगुणभूतस्येव ज्ञानस्याप्यात्मगुणभूतस्य द्रव्यत्वमविरुद्धमित्युक्त्तम्। अतो न वाह्याथतर्ाभावः। यत्परैः स्वप्रज्ञानदृष्टान्तेन जागरितज्ञानानामपि निरालम्बनत्वमुक्त्तम्; तत्राह।। 27।।
स्वप्रज्ञानवैधर्म्याज्जागरितज्ञानानामर्थशून्यत्वं न युज्यते वक्त्तुम्, स्वप्रज्ञानानि हि निद्रादिदोषदुष्टकरणजन्यानि वाधितानि च, जागरितज्ञानानि तू तद्विपरितानीति तेषां न तत्साम्यम्, सर्वेषां च ज्ञानानामर्थशून्यत्वे भवद्भिः साध्योऽप्यर्थो न सिद्ध्यति, निरालम्बनानुमानस्याप्यर्थशून्यत्वात्, तस्यार्थवत्त्वेज्ञानत्वस्यानैकान्त्यात्सुतरामर्थशून्यत्वासिद्धिः।। 28।।
न केवलस्यार्थशून्यस्य ज्ञानस्य भावः सम्भवति, कुतः ? क्कचिदप्यनुपलब्धेः। न ह्यकर्तृकस्याकर्मकस्य वा ज्ञानस्य क्कचिदुपलब्धिः "स्वप्रज्ञानादिष्वपि नार्थशून्यत्वमिति ख्यातिनिरूपणे प्रतिपादितम्।। 29।।
।। इति उपलब्ध्यधिकरणम्।।