Chapter 2
Verse 2.15
Adhikaraṇa 2.2.5 सर्वथानुपपत्त्यधिकरणम्
सर्वथाऽनुपपत्तेश्च॥2.2.30॥
Commentaries
Commentary by Śrī Rāmānujācārya's Śrībhāṣya
Adhikaraṇa 2.2.5 सर्वथानुपपत्त्यधिकरणम्
अत्र सर्वशून्यवादी माध्यमिकः प्रत्यवतिष्ठते - शून्यवादे एव हि सुगतमतकाष्ठा। शिष्यबुद्धियोग्यतानुगुण्येनार्थाभ्युपगमादिना क्षणिकत्वादय उक्त्ताः विज्ञानं बाह्यार्थाश्च सर्वे न सन्ति, शून्यमेव तत्त्वम्। अभावापत्तिरेव च मोक्ष इत्येव बुद्धस्याभिप्रायः। तदेव हि युक्त्तम्, शून्यस्याहेतुसाध्यतया स्वतः सिद्धेः। सत एव हि हेतुरन्वेषणीयः, तच्च सत् भावादभावाच्च नोत्पद्यते; भावात्तावन्न कस्यचिदुत्पत्तिर्दृष्टा, न हि घटादिरनुपमृदिते पिण्डादिके जायते। नाप्यभावादुत्पत्तिः सम्भवति, नष्टे पिण्डादिके ह्यभावादुत्पद्यमानं घटादिकमभावात्मकमेव स्यात्। तथा स्वतः परतश्चोत्पत्तिर्न सम्भवति। स्वतस्स्वोत्पत्तावात्माश्रयदोषप्रसंगात् प्रयोजनाभावाच्च। परतः परोत्पत्तौ परत्वाविशेषात् सर्वेषां सर्वेभ्य उत्पत्तिप्रसंगः। जन्माभावादेव विनाशस्याप्य भावः, अतः शून्यमेव तत्त्वम्। अतो जन्मविनाशसदसदादयो भ्रान्तिमात्रम्। न च निरधिष्ठानभ्रमासम्भवाद्भमाधिष्ठानं किञ्चित्पारमाथिर्कं तत्त्वमाश्रयितव्यम्। दोषदोषाश्रयत्वज्ञातृत्वाद्यपारमाथ्थर्ेऽपि भ्रमोपपत्तिवदाधिष्ठानापारमार्थ्येऽपि भ्रमोपपत्तेः। अतः शून्यमेव तत्त्वमिति प्राप्ते उच्यते - सर्वथानुपपत्तेश्च इति। सर्वथाऽनुपपत्तेः सर्वशून्यत्वं च भवदभिप्रेतं न सम्भवति। किं भवान्सर्वं सदिति वा प्रतिजानीते ?। असदिति वा ?। अन्यथा वा ?। सर्वथा तवाभिप्रेतं तुच्छत्वं न सम्भवति, लोके भावाभावशब्दयोस्तत्प्रतीत्योश्च विद्य मानस्यैव वस्तुतोऽवस्थाविशेषगोचरत्वस्य प्रतिपादितत्वात्। अतस्सर्वं शून्यमिति प्रतिजानता सर्वं सदिति प्रतिजानतेव सर्वस्य विद्यमानस्यावस्थाविशेषयोग्यतैव प्रतिज्ञाता भवतीति भवदभिमता तुच्छता न कुतश्चिदपि सिद्धयति।किञ्च कुतश्चित्प्रमाणाच्छूत्यत्वमुपत्वभ्य शून्यत्वं सिषाधयिषता तस्य प्रमाणस्य सत्यत्वमभ्युपेत्यम्, तस्यासत्यत्वे सर्वं सत्यं स्यादिति सर्वथा सर्वशून्यत्वं चानुपपन्नम्।। 30।।
।। इति सर्वथानुपपत्त्यधिकरणम्।।