Chapter 2
Verse 2.18
Adhikaraṇa 2.2.8 उत्पत्त्यसम्भवाधिकरणम्
उत्पत्त्यसम्भवात्॥2.2.39॥
न च कर्तुः करणम्॥2.2.40॥
विज्ञानादिभावे वा तदप्रतिषेधः॥2.2.41॥
विप्रतिषेधाच्च॥2.2.42॥
Commentaries
Commentary by Śrī Rāmānujācārya's Śrībhāṣya
Adhikaraṇa 2.2.8 उत्पत्त्यसम्भवाधिकरणम्
कपिलादितन्त्रसामान्याद्भगवदभिहितपरमनिःश्रेयससाधनाववोधिनि पञ्चरात्रतन्त्रेऽप्यप्रामाण्यमाशङ्कय निराक्रियते; तत्रैवमाशङ्कते "परमकारणात्परब्रह्मभूताद्वासुदेवात्सङ्कर्षणो नाम जीवो जायते सङ्कर्षणात्प्रद्युम्नसंज्ञं मनो जायते तस्मादनिरुद्धसंज्ञोऽहङ्कारो जायते" इति हि भागवतप्रक्रिया। अत्र जीवस्योत्पत्तिः श्रुतिविरुद्धा प्रतीयते; श्रुतयो हि जीवस्याऽनादित्वं वदन्ति। "न जायते म्रियते वा विपश्चित्" इत्याद्याः।। 39।।
सङ्कर्षणात्प्रद्युम्रसंज्ञं मनो जायत इति कर्त्तुर्जीवात्करणस्य मनस उत्पत्तिर्न सम्भवति, "एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च" इति परस्मादेव ब्रह्मणो मनसोऽप्युत्पत्तिश्रुतेः, अतः श्रुतिविरुद्धार्थप्रतिपादनादस्यापि तन्त्रस्य प्रामाण्यं प्रतिषिध्यत इति।। 40।।
एवं प्राप्ते प्रचक्ष्महे - वाशब्दात्पक्षो विपरिवर्तते, विज्ञानं चादि चेति, परब्रह्मविज्ञानादि सङ्कर्षणप्रद्युमानिरुद्धानामपि परब्रह्मभावे सति तत्प्रतिपादनपरस्य शास्त्रस्य प्रामाण्यं न प्रतिषिध्यते। एतदुक्त्तं भवति - भागवतप्रक्रियामजानतामिदं चोद्यं यज्जीवोत्पत्तिविरुद्धाऽभिहितेति। वासुदेवाख्यं परं ब्रह्मैवाश्रितवत्सलं स्वाश्रितसमाश्रयणीयत्वाय स्वेच्छया चतुर्धाऽवतिष्ठत इति हि तत्प्रक्रिया, यथा पौष्करसंहितायां " कर्त्तव्यत्वेन वै यत्र चातुरात्म्यमुपास्यते। क्रमागौः स्वसंज्ञाभिर्ब्राह्मणैरागमं तु तत्" इत्यादि। तुच्च चातुरात्म्योपासनं वासुदेवाख्यपरब्रह्मोपा सनमिति सात्वतसंहितायामुक्त्तम् "ब्राह्मणानां हि द्व्र्रह्म वासुदेवाख्ययाजिनाम्। विवेकदं परं शास्त्रं ब्रह्मोपनिषदं महत्" इति। तद्धि वासुदेवाख्यं परं ब्रह्म सम्पूर्णषाड्गुण्यवपुः सूक्ष्मव्यूहविभवभेदभिन्नं यथाधिकारं भक्त्तैर्ज्ञानपूर्वेण कर्मणाऽभ्यर्चितं सम्यक् प्राप्यते। विभावार्चनाद्व्यूहं पाप्य व्यूहार्चनात्परं ब्रह्म वासुदेवाख्यं सूक्ष्मं प्राप्यते - इति वदन्ति। विभवो हि नाम रामकृष्णादिप्रादुर्भावगणः। व्यूहो वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धरूपश्चतुर्व्यूहः। सूक्ष्मं तु केवलपाड्गुण्यविग्रहं वासुदेवाख्यं परं ब्रह्म। यथा पौष्करे "यस्मात्सम्यक् परं ब्रह्म वासुदेवाख्यमव्ययम्। अस्मादवाप्यते शास्त्रात् ज्ञानपूर्वेण कर्मणा" इत्यादि। अतः सङ्कर्षणादीनामपि परस्यैव ब्रह्मणः स्वेच्छाविग्रहरूपत्वात् "अजायमानो बहुधा विजायत" इति श्रुतिसिद्धस्यैवाश्रितवात्सल्यनिमित्तस्वेच्छाविग्रहसङ्ग्रहरूपजन्मनोऽभिधानात् तदभिधायि शास्त्रप्रामाण्यस्याप्रतिषेधः - इति। तत्र जीयमनोऽहङ्कारतत्त्वानामधिष्ठातारः सङ्कर्षणप्रद्युम्नानिरुद्धा इति तेषामेव जीवादिशब्दैरुभधानमविरुद्धम्; यथाऽऽकाशप्राणादिशब्दैबर्रह्मणोऽभिधानम्।। 41।।
विप्रतिषिद्धा हि जीवोत्पत्तिस्तस्मिन्नपि तन्त्रे; यथोक्त्तं परमसंहितायाम्। "अचेतना परार्था च नित्या सतत विक्रिया ः त्रिगुणा कर्मिणां क्षेत्रं प्रकृतेरूपमुच्यते।। व्याप्तिरूपेण सम्बन्धस्यस्याश्च पुरुषस्य च। सह्यनादिरनन्तश्च परमार्थेन निश्चितः" इति। एवं सर्वास्वपि संहितासु जीवस्य नित्यत्ववचनाज्जीवस्वरूपोत्पत्तिः पञ्चरात्रतन्त्रे प्रतिषिद्धैव। जन्ममरणादिव्यवहारस्तु लोकवेदयोर्जीवस्य यथोपपद्यते, तथा "नात्माश्रुते"रित्यत्र वक्ष्यते। अतो नीवस्योत्पत्तिस्तत्रापि प्रतिषिद्धैवेति जीवोत्पत्तिवादनिमित्ताप्रामाण्यशङ्का दूरोत्सारिता। यश्चैष केषां चिदुद्धोषः "साङ्गेषु वेदेषु निष्ठामलभमानः शाण्डिल्यः पञ्चरात्रशास्त्रमधीतवान्" इति साङ्गेषु वेदेषु पुरुषार्थनिष्ठा न लब्धेति वचनात् वेदविरुद्धं तन्त्रमिति, सोऽप्यनाघ्रातवेदवचसामनाकलिततदुपबृंहणन्यायकलापानां श्रद्धामात्रविजृम्भितः; यथा "प्रातः प्रातरनृतं ते वदन्ति पुरे दयाज्जुह्वति येऽग्रिहोत्रम्" इति अनुदितहोमनिन्दोदितहोमप्रशंसार्थेत्युक्त्तम्; यथा च भूमविद्याप्रकमे नारदेन " ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमम्" इत्यारभ्य सर्वं विद्यास्थानमभिधाय "सोऽहंभगवो मन्त्रविदेवास्मिन्नेत्मवित्" इति भूमयिद्याव्यतिरिक्त्तास ु सर्वासु विद्यास्वात्मवेदनालाभवचनं वक्ष्यमाणभूमविद्याप्रशंसार्थं कृतम्; अथवा अस्य नारदस्य साङ्गेषु वेदेषुे यत्परतत्त्वं प्रतिपाद्यते, तदलाभनिमित्तशेऽयं वादः, एवमेव शाण्डिल्यस्येति। पश्चाद्वेदान्तवेद्यवासुदेवाख्यपरब्रह्मतत्त्वाभिधानादवगम्यते, तथा वेदार्थस्य दुर्ज्ञा नतया सुखाववोधार्थः शास्त्रारम्भः परमसंहितायामुच्यते "अधीता भगवन्वेदाः साङ्गोपाङ्गाः सविस्तराः। श्रुतानि च मयाऽङ्गानि वाकोवाक्ययुतानि च।। न चैतेषु समस्तेषु संशयेन विना क्कचित्। श्रेयोमार्गं प्रपश्यामि येन सिद्धिभर्विष्यति" इति। "वेदान्तेषु यथासारं सङ्गृह्य भगवान् हरिः। भक्त्तानुकम्पया विद्वान्। सञ्चिक्षेप यथासुखम्" इति च। अतः स भगवान्वेदैकवेद्यः परब्रह्माभिधानो वासुदेवो निखिलहेयप्रत्यनीककल्याणैकतानानन्तज्ञानानन्दाद्यपरिमितोदारगुणसागरः सत्यसङ्कल्पश्चातुर्वण्यचातुराश्रम्यव्यवस्थयाऽवस्थितान्धर्मार्थकाममोक्षाख्यपुरुषार्थाभिमुखान् भक्त्तानवलोक्यापारकारुण्यसौशील्यवात्सल्यौदार्यमहोदधिः स्वस्वरूपस्वविभूतिस्वाराधनतत्फलयाथात्म्याववोधिनो वेदान् ऋग्यजुः - सामाथर्वभेदभिन्नानपरिमितशाखान् विध्य र्थवादमन्त्ररूपान् स्वेतरसकलसुरनरदुरवगाहाँश्चावधार्य तदर्थयाथात्म्याववोधिपञ्चरात्रं शास्त्रं स्वयमेव निरमिमीतेति निरवद्यम्। यत्तु परैः सूत्रचतुष्टयं कस्यचिद्विरुद्धांशस्य प्रामाण्यनिपेधपरं व्याख्यातं तत्सूत्राक्षराननुगुणं सूत्रकाराभिप्रायविरुद्धं च। तथा हि सूत्रकारेण वेदान्तन्यायाभिधांयीनि सूत्राण्यभिधाय, वेदोपवृंहणाय च भारतसंहितां शतसाहस्त्रिकां कुर्वता मोक्षधर्मे ज्ञानकाण्डेऽभिहितं "गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः। य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः" इत्यारभ्य महता प्रबन्धेन पञ्चोत्रशास्त्रप्रक्रियां प्रतिपाद्य "इदं शतसहस्त्राद्धि भारताख्यानविस्तरात्। आविध्य मतिमन्थानं दध्नो घृतमिवोद्धृतम्।। नवनीतो यथा दधनो द्विपदां ब्राह्मणो यथा। आरण्यकं च वेदेभ्य ओपधीभ्यो यथाऽमृतम्।। इदं महोपनिपदं चतुर्वेदसमन्वितम्। साङ्खययोगकृतान्तेन पञ्चरात्रानुाब्दितम्।। इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम्। ऋग्यजुःसामभिर्जुष्टमथर्वाङ्गिरसस्तथा।। भविष्यति प्रमाणं वा एतदेवानुशासनम्" इति साङ्खययोगशब्दाभायां ज्ञानयोगकर्मयोगावभिहितौ; यथोक्त्तं "ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योभिनाम्" इति; भीष्मपर्वण्यपि "ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः। अर्चनीयश्च सेव्यश्च पूजनीयश्च माधवः।।
सात्वतं विधिमास्थाय गीतः सङ्गर्षणेन यः" इति। कथमेवं ब्रुवाणो वादरायणो वेदविदग्रेसरो वेदान्तवेद्यपरब्रह्मभूरवासुदेवोपासनार्चनादिप्रतिपादनपरस्य सात्वतशास्त्रस्याप्रामाण्यं ब्रूयात्। ननु च "साङ्ख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा। किमेतान्येकनिष्ठानि वा मुने" इत्यादिना साङ्ख्यादीनामप्यादरणीयतोच्यते, शारीरकेऽपि साङ्खयादीनि प्रति षिध्यन्ते; ैअत इदमपि तन्त्रं तत्तुल्यम्; नेत्युच्यते, यतस्तत्रापीममेव शारीरकोक्त्तन्यायमवतारयति "किमेतान्येकनिष्ठानि पृथङ्निष्ठानि वा" इति प्रश्रस्यायमर्थः किं साङ्ख्ययोगपाशुपतवेदपञ्चरात्राणि एकतत्त्वप्रतिपादनपराणि, पृथक्त्तत्वप्रतिपादनपराणि वा, यदैकत्त्वप्रतिपादनपराणि, किं तदेकं तत्त्वम्?। यदा पृथक्त्तत्त्वप्रतिपादनपराणि तदैषां परस्परविरुद्धार्थप्रतिपादनपरत्वाद्वस्तुनि विकल्पासम्भवाच्छैकमेव प्रमाणमङ्गीकरणीयम्, किं तदेकमित्यस्योत्तरं ब्रुवन् "ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै। साङ्ख्यस्य वक्त्ता कपिल" इत्यारभ्य साङ्खययोगपाशुपतानां कपिलहिरण्यगर्भपशुपतिकृतत्वेन पौरुषेयत्वं प्रतिपाद्य "अवान्तरतषा नाम वेदाचार्य्यः स उच्यते" इति वेदानामपौरुषेयत्वमभिधाय"पञ्चरात्रस्य वक्त्ता नारायणः स्वयम्" इति पञ्चरात्रतन्त्रस्य वक्त्त नारायथः स्वयमेवेत्युक्त्तवान्। एवं वदतश्चायमाशयः - पौरुषेयाणां तन्त्राणां परस्परविरुद्धवस्तुवादतया अपौरुषेयत्वेन निरस्त प्रमादादिनिखिलदोषगन्धवेदवेद्यवस्तुविरुद्धाभिधायित्वच्च यथावस्थितवस्तुनि प्रामाण्यं दुर्ल्लभम्; वेदवेद्यश्च परब्रह्मभूतोनारायणः; अतस्तत्तन्त्राभिहितप्रधानपुरुषपशुपतिप्रभृतितत्त्वस्य वेदान्तवेदेयपरब्रह्मभूतनारायणात्मकतयैव वस्तु त्वमभ्युपगमनीयमिति। तदिदमाह च "सर्वेषु च नृपश्रेष्ठ ! ज्ञानेष्वेतेषु दृश्यते। यथागमं यथान्यायं निष्ठानारायणः प्रभुः" इति। "यतागमं यथान्याय" मिति न्यायानुगृहीततत्तदागमोक्त्तं वस्तु परामृशतो नारायण एव सर्वस्य वस्तुनो निष्ठेति दृश्यते। अब्रह्मात्मकतया तत्तत्तन्त्राभिहिनानां तत्त्वानां "सर्वं खल्विदं ब्रह्म" "विश्वं नारायथ" इत्यादिना सर्वस्य ब्रह्मात्मकतामनुसन्दधानस्य च नारायण एव निष्ठेति प्रतीयत इत्यर्थः। अतो वेदान्तवेद्यः परब्रह्मभूतो नारायणः स्वयमेव पञ्चरात्रस्य कृत्स्नस्य वक्त्तेति, तत्स्वरूपतदुपासनाभिधायि तत्तन्त्रमिति च तस्मिन्नितरतन्त्रसामान्यं न केनचिदुद्भावयितुं शक्यम्। अतस्तत्रैवेदमुच्यते "एवमेकं साङ्खययोगं वेदारण्यकममेव च। परस्पराङ्गान्येतानि - पञ्चरात्रं तु कथ्यते" इति; साङ्ख्यञ्च योगश्च साङ्ख्ययोगम्, वेदाश्चारण्यकानि च वेदारण्यकम्, परस्पराङ्घान्येतान्येकतत्वप्रतिपादनपरतयैकीभूतानि - एकं पञ्चतात्रमिति कथ्यते। एतदुक्त्तं भवति साङ्ख्योक्त्तानि पञ्चर्विशतितत्त्वानि, योगोक्त्तं च यमनियमाद्यत्मकं योगम्, वेदोदितकर्मस्वरूपाण्यङ्गीकृत्य तत्त्वानां ब्रह्मात्मकत्वम्, योगस्य च ब्रह्मोपासनप्रकारत्वं कर्मणां च तदाराधनरूपतामभिदधति ब्रह्मस्वरूपं प्रतिपादयन्त्यारण्यकानि। एतदेव परेण ब्रह्मणा नारायणेन स्वयमेव पञ्चरात्रतन्त्रे विशदीकृतमिति। शारीरके च साङ्ख्योक्त्ततत्त्वानामब्रह्मात्मकतामात्रं निराकृतम्; न स्वरूपम्। योगपाशुपतयोश्चेश्वरस्य केवलनिमित्तकारणता परावरतत्त्वविपरीतकल्पना, वेनवहिष्कृताचारो निराकृतः न योगस्वरूपम्, पशुपतिस्वरूपं च। अतः साङ्ख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभिः" इति तत्तदभिहिततत्तत्स्वरूपमात्रमङ्गीकार्य्यम्; जिनसुगताभिहिततत्त्ववत्सर्वं न बहिष्कार्य्यमित्युच्यते। यथाऽऽगमं "यथान्यायं निष्ठा नारायणः प्रभु" रित्यनेनैकार्य्यात्।। 42।।